पूर्वकृतफलानुबन्धात्तदुत्पत्तिः ।
भूतेभ्यो मूत्र्त्युपादानवत् तदुपादानम् ।
न; साध्यसमत्वात् ।
न; उत्पत्तिनिमित्तत्वान्मातापित्रोः ।
तथाहारस्य ।
प्राप्तौ चानियमात् ।
शरीरोत्पत्तिनिमित्तवत् संयोगात्पत्तिनिमित्तं कर्म ।
एतेनानियमः प्रत्युक्तः ।
तददृष्टकारितमिति चेत् पुनस्तत्प्रसङ्गोऽपवर्गे ।
मनः कर्मनिमित्तात्वाच्च संयोगाद्यनुच्छेदः ।
नित्यत्वप्रसङ्गश्च प्रायणानुपपत्तेः ।
अणुश्यामतानित्यत्ववदेतत् स्यात् ।
न; अकृताभ्यागमप्रसङ्गात् ।