स्फटिकेऽप्यपरापरोत्पत्तेः क्षणिकत्वाद्वयक्तीनामहेतुः ।
नियमहेत्वभावाद् यथादर्शनमभ्यनुज्ञा ।
न उत्पत्तिविनाशकारणोपलब्धेः ।
क्षीरविनाशे कारणानुपलब्धिवद्दध्युत्पत्तिवच्च तदुपपत्तिः ।
लिङ्गतो ग्रहणान्नानुपलब्धिः ।
न पयसः परिणामगुणान्तरप्रादुर्भावात् ।
व्यूहान्तराद् द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेरनुमानम् ।
क्वचिद्विनाशकारणानुपलब्धेः क्वचिच्चोपलब्धेरनैकान्तः ।