नेन्द्रियार्थयोस्तद्विनाशेऽपि ज्ञानावस्थानात् ।
युगपज्ज्ञेयानुपलब्धेश्च न मनसः ।
तदात्मगुणत्वेऽपि तुल्यम् ।
इन्द्रियैर्मनसः सन्निकर्षाभावात् तदनुत्पत्तिः ।
न उत्पत्तिकारणानपदेशात् ।
विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः ।
अनित्यत्वग्रहणाद् बुद्धेर्बुध्यन्तराद्विनाशः शब्दवत् ।
ज्ञानसमवेतात्मप्रदेशसन्निकर्षान्मनसः स्मृत्युत्पत्तेर्न युगपदुत्पत्तिः ।
नः अन्तः शरीरवृत्तित्वान्मनसः ।
साध्यत्वादहेतुः ।
स्मरतः शरीरधारणोपपत्तेरप्रतिषेधः ।
न तदाशुगतित्वान्मनसः ।
न; स्मरणकालानियात् ।
आत्मप्रेरणयदृच्छाज्ञताभिश्च न संयोगविशेषः ।
व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम् ।
प्रणिधानलिङ्गादिज्ञानानामयुपद्भावाद्युगपदस्मरणम् ।
ज्ञस्येच्छाद्वेषनिमित्तित्वादारम्भनिवृत्त्योः ।
तल्ल्ङ्गित्वादिच्छाद्वेषयोः पार्थिवाद्येष्वप्रतिषेधः ।
परश्वादिष्वारम्भनिवृत्तिदर्शनात् ।
नियमानियमौ तु तद्विशेषकौ ।
यथोक्तहेतुत्वात् पारतन्त्र्यादकृताभ्यागमाच्च न मनसः ।
परिशेषात् यथोक्तहेतूपपत्तेश्च ।
स्मरणं त्वत्मनो ज्ञस्वाभाव्यात् ।
प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहणाश्रयाश्रितसम्बन्धानन्तर्यवियोगैककार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभयाऽर्थित्वक्रियारागधर्माधर्मनिमित्तेभ्यः ।