द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः ।
यावच्छरीरभावित्वाद् रूपादीनाम् ।
न पाकजगुणान्तरोत्पत्तेः ।
प्रतिद्वन्द्विसिद्धेः पाकजानामप्रतिषेधः ।
शरीरव्यापित्वात् ।
न; केशनखादिप्वनुपलब्धेः ?
त्वक्पर्यन्तत्वाच्छरीरस्य केशनखादिष्वप्रसङ्गः ।
शरीरगुणवैधर्म्यात् ।
न; रूपादीनामितरेतरवैधर्म्यात् ।
ऐन्द्रियकत्वाद् रूपादीनामप्रतिषेधः ।