कर्मानवस्थायिग्रहणात् ।
अव्यक्तग्रहणमनवस्थायित्वात् विद्युत्सम्पाते रूपाव्यक्तग्रहणवत् ।
हेतूपादानात् प्रतिषेद्धव्याभ्यनुज्ञा ।
न प्रदीपार्चिषः सन्तत्यभिव्यक्तग्रहणवत् तद्ग्रहणम् ।