कर्माकाशसाधर्म्यात् संशयः ।
विषयप्रत्यभिज्ञानात् ।
साध्यसमत्वादहेतुः ।
न युगपदग्रहणात् ।
अप्रत्यभिज्ञाने च विनाशप्रसङ्गः ।
क्रमवृत्तित्वादयुगपद्ग्रहणम् ।
अप्रत्यभिज्ञानञ्च विषयान्तरव्यासङ्गात् ।
न; गत्यभावात् ।
स्फटिकान्यत्वाभिमानवत्तदन्यत्वाभिमानः ।