ज्ञानायौगपद्यादेकं मनः ।
न युगपदनेकक्रियोपलब्धेः ।
अलातकचक्रदर्शनवत्तदुपलब्धिराशुसञ्चरात् ।
यथोक्तहेतुत्वाच्चाणु ।