Gautameeyam
द्वितीयोऽध्यायः
प्रथममाह्निकम्
Back
शब्दविशेषपरीक्षाप्रकरणम्
२.१.५७

तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः ।

सूत्रम्
२.१.५८

न; कर्मकर्तृसाधनवैगुण्यात् ।

सूत्रम्
२.१.५९

अभ्युपेत्य कालभेदे दोषवचनात् ।

सूत्रम्
२.१.६०

अनुवादोपपत्तेश्च ।

सूत्रम्
२.१.६१

वाक्यविभागस्य चार्थग्रहणात् ।

सूत्रम्
२.१.६२

विध्यर्थवादानुवादवचनविनियोगात् ।

सूत्रम्
२.१.६३

विधिर्विधायकः ।

सूत्रम्
२.१.६४

स्तुतिर्निन्दा परकृतिः पुराकल्प इत्यर्थवादः ।

सूत्रम्
२.१.६५

विधिविहितस्यानुवचनमनुवादः ।

सूत्रम्
२.१.६६

नानुवादपुनरुक्तयोर्विशेषःशब्दाभ्यासोपपत्तेः ।

सूत्रम्
२.१.६७

शीघ्रतरगमनोपदेशवदभ्यासान्नाविशेषः ।

सूत्रम्
२.१.६९

मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात् ।

सूत्रम्