साध्यत्वादवयविनि सन्देहः ।
सर्वाग्रहणमवयव्यसिद्धेः ।
धारणाकर्षणोपपत्तेश्च ।
सेनावनवत् ग्रहणमिति चेन्न; अतीन्द्रियत्वादणूनाम् ।