शब्दोऽनुमानमर्थस्यानुपलब्धेरनुमेयत्वात् ।
उपलब्धेरद्विप्रवृत्तित्वात् ?
सम्बन्धाच्च ?
आप्तोपदेशसामर्थ्याचछब्दादर्थसम्प्रत्ययः ।
पूरणप्रदाहपाटनानुपलब्धेश्च सम्बन्धाभावः ।
शब्दार्थव्यवस्थानादप्रतिषेधः ?
न; सामयिकत्वाच्छब्दार्थसम्प्रत्ययस्य ।
जातिविशेषे चानियमात् ।