प्रत्यलक्षणानुपपत्तिरसमग्रवचनात् ।
नात्ममनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः ।
दिग्देशकालाकाशेष्वप्येवं प्रसङ्ग ।
ज्ञानलिङ्गत्वादात्मनो नानवरोधः ।
तदयौगपद्यलिङ्गत्वाच्च न मनसः ।
प्रत्यक्षनिमित्तत्वाच्चेन्द्रियार्थयोः सन्निकर्षस्य स्वशब्देन वचनम् ।
सुप्तव्यासक्तमनसां चेन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात् ।
तैश्चापदेशो ज्ञानविशेषाणाम् ।
व्याहतत्वादहेतुः ।
नार्थविशेषप्राबल्यात् ।
प्रत्यक्षमनुमानमेकदेशग्रहणादुपलब्धेः ।
न प्रत्यक्षेण यावत्तावदप्युपलम्भात् ।