समानानेकधर्माध्यवसायादन्यतरधर्माध्यवसायाद्वा न संशयः ।
विप्रतिपत्त्यव्यवस्थाध्यवसायाच्च ।
विप्रतिपत्तौ च सम्प्रतिपत्तेः ।
अव्यवस्थात्मनि व्यवस्थितत्त्वाच्चाव्यवस्थायाः ।
तथाऽत्यन्तसंशयस्तद्धर्मसातत्योपपत्तेः ।
यथोक्ताध्यवसायादेव तद्विशेषापेक्षात् संशये नासंशयो नात्यन्तसंशयो वा ।
यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः ।