सर्वं नित्यं पञ्चभूतनित्यत्वात् ।
नोत्पत्तिविनाशकारणोपलब्धेः ।
तल्लक्षणावरोधादप्रतिषेधः ।
नोत्पत्तितत्कारणोपलब्धेः ।
न व्यवस्थानुपपत्तेः ।