अभावाद्भावोत्पत्तिर्नानुपमृद्य प्रादुर्भावात् ।
व्याघातादप्रयोगः ।
न अतीतानागतयोः कारकशब्दप्रयोगात् ।
न विनष्टेभ्योऽनिष्पत्तेः ।
क्रमनिर्देशादप्रतिषेधः ।