विविधबाधनायोगाद् दुःखमेव जन्मोत्पत्तिः ।
न सुखस्याप्यन्तरालनिष्पत्तेः ।
बाधनाऽनिवृत्तेर्वेदयतः पर्येषणदोषादप्रतिषेधः ।
दुःखविकल्पे सुखाभिमानाच्च ।