Gautameeyam
चतुर्थोऽध्यायः
प्रथममाह्निकम्
Back
अपवर्गपरीक्षाप्रकरणम्
४.१.५८

ऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः ।

सूत्रम्
४.१.५९

प्रधानशब्दानुपपत्तेर्गुणशब्देनानुवादो निन्दाप्रशंसोपपत्तेः ।

सूत्रम्
४.१.६०

समारोपणादात्मन्यप्रतिषेधः ।

सूत्रम्
४.१.६१

पात्रचयान्तानुपपत्तेश्च फलाभावः ।

सूत्रम्
४.१.६२

सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः ।

सूत्रम्
४.१.६३

न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य ।

सूत्रम्
४.१.६४

न क्लेशसन्ततेः स्वाभाविकत्वात् ।

सूत्रम्
४.१.६५

प्रागुत्पत्तेरभावानित्यत्ववत् स्वाभाविकेऽप्यनित्यत्वम् ।

सूत्रम्
४.१.६६

अणुश्यामताऽनित्यत्ववद्वा ।

सूत्रम्
४.१.६७

न सङ्कल्पनिमित्तत्वाच्च रागादीनाम् ।

सूत्रम्