Gautameeyam
द्वितीयोऽध्यायः
द्वितीयमाह्निकम्
Back
शब्दशक्तिपरीक्षाप्रकरणम्
२.२.५८

ते विभक्त्यन्ताः पदम् ।

सूत्रम्
२.२.५९

व्यक्तत्याकृतिजातिसन्निधावुपचारात् संशयः ।

सूत्रम्
२.२.६०

या शब्दसमूहत्यागपरिग्रहसङ्ख्यावृद्ध्युपचयवर्णसमासानुबन्धानां व्यक्तावुपचाराद् व्यक्तिः ।

सूत्रम्
२.२.६१

न; तदनवस्थानात् ।

सूत्रम्
२.२.६२

सहचरणस्थानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्यो ब्राह्मणमञ्चकटराजसक्तुचन्दनगङ्गाशाटकान्नपुरुषेप्वतद्भावेऽपि तदुपचारः ।

सूत्रम्
२.२.६३

आकृतिस्तपदपेक्षत्वात् सत्त्वव्यस्थानसिद्धेः ?

सूत्रम्
२.२.६४

व्यक्त्याकृतियुक्तेऽप्यप्रसङ्गात् प्रोक्षणादीनां मृद्गवके जातिः ?

सूत्रम्
२.२.६५

न, आकृतिव्यक्त्यपेक्षत्वाज्जात्यभिव्यक्तेः ।

सूत्रम्
२.२.६६

व्यक्त्याकृतिजातयस्तु पदार्थः ।

सूत्रम्
२.२.६७

व्यक्तिगुणविशेषाश्रयो मूर्तिः ।

सूत्रम्
२.२.६८

आकृतिर्जातिलिङ्गाख्या ।

सूत्रम्
२.२.६९

समानप्रसवात्मिका जातिः ।

सूत्रम्