Gautameeyam
द्वितीयोऽध्यायः
द्वितीयमाह्निकम्
Back
चतुष्ट्वपरीक्षाप्रकरणम्
२.२.१

न चतुष्ट्वमैतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् ।

सूत्रम्
२.२.२

शब्द ऐतिह्यानर्थान्तरभावादनुमानेऽर्थापत्तिसम्भवाभावानर्थान्तरभावाच्चाप्रतिषेधः ।

सूत्रम्
२.२.३

अर्थापत्तिरप्रमाणमनैकान्तिकत्वात् ।

सूत्रम्
२.२.४

अनर्थापत्तावर्थापत्त्यभिमानात् ।

सूत्रम्
२.२.५

प्रतिषेधाप्रामाण्यञ्चानैकान्तिकत्वात् ।

सूत्रम्
२.२.६

तत्प्रामाण्ये वा नार्थापत्त्यप्रामाण्यम् ।

सूत्रम्
२.२.७

नाभावप्रामाण्यं प्रमेयासिद्धेः ।

सूत्रम्
२.२.८

लक्षितेष्वलक्षणलक्षितत्वादलक्षितानां तत्प्रमेयसिद्धिः ।

सूत्रम्
२.२.९

असत्यर्थे नाभाव इति चेन्न; अन्यलक्षणोपपत्तेः ।

सूत्रम्
२.२.१०

तत्सिद्धेरलक्षितेष्वहेतुः ।

सूत्रम्
२.२.११

न; लक्षणावस्थितापेक्षासिद्धेः ।

सूत्रम्
२.२.१२

प्रागुत्पत्तेरभावोपपत्तेश्च ।

सूत्रम्