Gautameeyam
द्वितीयोऽध्यायः
द्वितीयमाह्निकम्
Back
शब्दपरिणामप्रकरणम्
२.२.४०

विकारादेशोपदेशात् संशयः ।

सूत्रम्
२.२.४१

प्रकृतिविवृद्धौ विकारविवृद्धेः ।

सूत्रम्
२.२.४२

न्यूनसमाधिकोपलब्धेर्विकाराणामहेतुः ।

सूत्रम्
२.२.४३

द्विविधस्यापि हेतोरभावादसाधनं दृष्टान्तः ।

सूत्रम्
२.२.४४

न; अतुल्यप्रकृतीनां विकारविकल्पात् ।

सूत्रम्
२.२.४५

द्रव्यविकारवैषम्यवद्वर्णविकारविकल्पः ।

सूत्रम्
२.२.४६

न; विकारधर्मानुपपत्तेः ।

सूत्रम्
२.२.४७

विकारप्राप्तानामपुनरापत्तेः ।

सूत्रम्
२.२.४८

सुवर्णादीनां पुनरापत्तेरहेतुः ।

सूत्रम्
२.२.४९

न; तद्विकाराणां सुवर्णभावाव्यतिरेकात् ।

सूत्रम्
२.२.५०

नित्यत्वेऽविकारादनित्यत्वे चानवस्थानात् ।

सूत्रम्
२.२.५१

नित्यानामतीन्द्रियत्वात् तद्धर्मविकल्पाच्च वर्णविकाराणामप्रतिषेधः ।

सूत्रम्
२.२.५२

अनवस्थायित्वे च वर्णोपलब्धिवत्तद्विकारोपपत्तिः ।

सूत्रम्
२.२.५३

विकारधर्मित्वे नित्यत्वाभावात् कालान्तरे विकारोपपत्तेश्चाप्रतिषेधः ।

सूत्रम्
२.२.५४

प्रकृत्यनियमाद् ।

सूत्रम्
२.२.५५

अनियमे नियमान्नानियमः ।

सूत्रम्
२.२.५६

नियमानियमविरोधादनियमे नियमाच्चाप्रतिषेधः ।

सूत्रम्
२.२.५७

गुणान्तरापत्त्युपमर्दह्रासवृद्धिलेशश्लेषेभ्यस्तु विकारोपपत्तेर्वर्णविकारः ।

सूत्रम्