Gautameeyam
द्वितीयोऽध्यायः
द्वितीयमाह्निकम्
Back
शब्दानित्यत्वप्रकरणम्
२.२.१३

आदिमत्त्वादैन्द्रियकत्वात् कृतकवदुपचाराच्च ।

सूत्रम्
२.२.१४

न; घटाभावसामान्यनित्यत्वात् नित्येष्वप्यनित्यवदुपचाराच्च ।

सूत्रम्
२.२.१५

तत्त्वभाक्तयोर्नानात्वविभागादव्यभिचारः ।

सूत्रम्
२.२.१६

सन्तानानुमानविशेषणात् ।

सूत्रम्
२.२.१७

कारणद्रव्यस्य प्रदेशशब्देनाभिधानात् ।

सूत्रम्
२.२.१८

प्रागुच्चारणादनुपलब्धेरावरणाद्यनुपलब्धेश्च ।

सूत्रम्
२.२.१९

तदनुपलब्धेरनुपलम्भादावरणोपत्तिः ।

सूत्रम्
२.२.२०

अनुपलम्भादप्यनुपलब्धिसद्भाववन्नावरणानुपपत्तिरनुपलम्भात् ।

सूत्रम्
२.२.२१

अनुपलम्भात्मकत्वादनुलब्धेरहेतुः ।

सूत्रम्
२.२.२२

अस्पर्शत्वात् ।

सूत्रम्
२.२.२३

न, कर्मानित्यत्वात् ।

सूत्रम्
२.२.२४

न, अणुनित्यत्वात् ।

सूत्रम्
२.२.२५

सम्प्रदानात् ।

सूत्रम्
२.२.२६

तदन्तरालानुपलब्धेरहेतुः ।

सूत्रम्
२.२.२७

अध्यापनादप्रतिषेधः ।

सूत्रम्
२.२.२८

उभयोः पक्षयोरन्यतरस्याध्यापनादप्रतिषेधः ।

सूत्रम्
२.२.२९

अभ्यासात् ।

सूत्रम्
२.२.३०

नान्यत्वेऽप्यभ्यासस्योपचारात् ।

सूत्रम्
२.२.३१

अन्यदन्यस्मादनन्यत्वादनन्यदित्यन्यताऽभावः ।

सूत्रम्
२.२.३२

तदभावे नास्त्यनन्यता, तयोरितरेतरापेक्षसिद्धेः ।

सूत्रम्
२.२.३३

विनाशकारणानुपलब्धेः ।

सूत्रम्
२.२.३४

अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः ।

सूत्रम्
२.२.३५

उपलभ्यमाने चानुपलब्धेरसत्त्वादनपदेशः ।

सूत्रम्
२.२.३६

पाणिनिमित्तप्रश्लेषाच्छब्दाभावे नानुपलब्धिः ।

सूत्रम्
२.२.३७

विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः ।

सूत्रम्
२.२.३८

अस्पर्शत्वादप्रतिषेधः ।

सूत्रम्
२.२.३९

विभक्त्यन्तरोपपत्तेश्च समासे ।

सूत्रम्