समाधिविशेषाभ्यासात् ।
नार्थविशेषप्राबल्यात् ।
क्षुदादिभिः प्रवर्तनाच्च ।
पूर्वकृतफलानुबन्धात् तदुत्पत्तिः ।
अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः ।
अपवर्गेऽप्येवं प्रसङ्गः ।
न, निष्पन्नावश्यम्भावित्वात् ।
तदभावश्चापवर्गे ।
तदर्थं यमनियमाभ्यासात्मसंस्करो योगाच्चाध्यात्मविध्युपायैः ।
ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः।
तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोऽर्थिभिरनसूयिभिरभ्युपेयात् ।
प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे ।