बुद्ध्या विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तन्त्वपकर्षणे पटसद्भावानुपलब्धिवत् तदनुपलब्धिः ।
व्याहतत्वादहेतुः ।
तदाश्रयत्वादपृथग्ग्रहणम् ।
प्रमाणतश्चाऽर्थप्रतिपत्तेः ।
प्रमाणानुपपत्त्युपपत्तिभ्याम् ।
स्वप्नविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः ।
मायागन्धर्वनगरमृगतृष्णिकावद्वा ।
हेत्वभावादसिद्धिः ।
स्मृतिसङ्कल्पवच्च स्वप्नविषयाभिमानः ।
मिथ्योपलब्धिविनाशस्तत्त्वज्ञानात् स्वप्नविषयाभिमानप्रणाशवत् प्रतिबोधे
बुद्धेश्चैवं निमित्तसद्भावोपलम्भात् ।
तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेर्द्वैविध्योपपत्तिः ।