आकाशव्यतिभेदात् तदनुपपत्तिः ।
आकाशासर्वगतत्त्वं वा ।
अन्तर्बहिश्च कार्यद्रव्यस्य कारणान्तरवचनादकार्ये तदभावः ।
शब्दसंयोगविभवाच्च सर्वगतम् ।
अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः ।
मूर्त्तिमताञ्च संस्थानोपपत्तरेवयवसद्भावः ।
संयोगोपपत्तेश्च ।
अनवस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः ।