Gautameeyam
तृतीयोऽध्यायः
प्रथममाह्निकम्
Back
इन्द्रियभौतिकत्वपरीक्षाप्रकरणम्
३.१.३२

कृष्णसारे सत्युपलम्भाद्व्यतिरिच्य चोपलम्भात् संशयः ।

सूत्रम्
३.१.३३

महदणुग्रहणात् ।

सूत्रम्
३.१.३४

रश्म्यर्थसन्निकर्षविशेषात् तद्ग्रहणम् ।

सूत्रम्
३.१.३५

तदनुपलब्धेरहेतुः ।

सूत्रम्
३.१.३६

नानुमीयमानस्य प्रत्यक्षतोऽनुपलब्धिरभावहेतुः ।

सूत्रम्
३.१.३७

द्रव्यगुणधर्मभेदाच्चोपलब्धिनियमः ।

सूत्रम्
३.१.३८

अनेकद्रव्यसमवायाद्रूपविशेषाच्च रूपोपलब्धिः ।

सूत्रम्
३.१.३९

कर्मकारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः ।

सूत्रम्
३.१.४०

मध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धिः ।

सूत्रम्
३.१.४१

न रात्रावप्यनुपलब्धेः ।

सूत्रम्
३.१.४२

बाह्यप्रकाशानुग्रहाद् विषयोपलब्धेरनभिव्यक्तित्तोऽनुपलब्धिः ।

सूत्रम्
३.१.४३

अभिव्यक्तौ चाभिभवात् ।

सूत्रम्
३.१.४४

नक्तञ्चरनयनरश्मिदर्शनाच्च ।

सूत्रम्
३.१.४५

अप्राप्य ग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धः ।

सूत्रम्
३.१.४६

कुड्यान्तरितानुपलब्धेरप्रतिषेधः।

सूत्रम्
३.१.४७

अप्रतीघातात्सन्निकर्षोपपत्तिः ।

सूत्रम्
३.१.४८

आदित्यरश्मेः स्फटिकान्तरितेऽपि दाह्येऽविघातात् ।

सूत्रम्
३.१.४९

नेतरेतरधर्मप्रसङ्गात् ।

सूत्रम्
३.१.५०

आदर्शोदकयोः प्रसादस्वाभाव्याद्रूपोपलब्धिवत्तदुपलब्धिः ।

सूत्रम्
३.१.५१

दृष्टानुमितानां नियोगप्रतिषेधानुपपत्तिः ।

सूत्रम्