सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् ।
नैकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानात् ।
एकविनाशे द्वितीयाविनाशान्नैकत्वम् ।
अवयवनाशेऽप्यवयव्युपलब्धेरहेतुः ।
दृष्टान्तविरोधादप्रतिषेधः ।
इन्द्रियान्तरविकारात् ।
नः स्मृतेः स्मर्त्तव्यविषयत्वात् ।
तदात्मगुणसद्भावादप्रतिषेधः ।