Gautameeyam
पञ्चमोऽध्यायः
द्वितीयमाह्निकम्
Back
प्रतिज्ञाहेत्वन्यतराश्रितनिग्रहस्थानपञ्चकविशेषलक्षणप्रकरणम्
५.२.१

प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासो हेत्वन्तरमर्थान्तरं निरर्थकमविज्ञातार्थमपार्थकमप्राप्तकालं न्यूनमधिकं पुनरुक्तमननुभाषणमज्ञानमप्रतिभा विक्षेपो मतानुज्ञापर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगोऽपसिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि ।

सूत्रम्
५.२.२

प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ।

सूत्रम्
५.२.३

प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञान्तरम् ।

सूत्रम्
५.२.४

प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः ।

सूत्रम्
५.२.५

पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासंन्यासः ।

सूत्रम्
५.२.६

अविशेषोक्ते हैतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् ।

सूत्रम्