त्रैकाल्यासिद्धेर्हेतोरहेतुसमः ।
न हेतुतः साध्यसिद्धेस्त्रैकाल्यासिद्धिः ।
प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः ।