Gautameeyam
प्रथमोऽध्यायः
प्रथममाह्निकम्
Back
प्रमेयलक्षणप्रकरणम्
१.१.९

इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् ।

सूत्रम्
१.१.१०

आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् ।

सूत्रम्
१.१.११

चेष्टेन्द्रियार्थाश्रयः शरीरम् ।

सूत्रम्
१.१.१२

घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः ।

सूत्रम्
१.१.१३

पृथ्व्यापस्तेजो वायुराकाशमिति भूतानि ।

सूत्रम्
१.१.१४

गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः ।

सूत्रम्
१.१.१५

बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम् ।

सूत्रम्
१.१.१६

युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ।

सूत्रम्
१.१.१७

प्रवृत्तिर्वाग्बुद्धिशरीराम्भः ।

सूत्रम्
१.१.१८

प्रवर्त्तनालक्षणा दोषाः ।

सूत्रम्
१.१.१९

पुनरुत्पत्तिः प्रेत्यभावः ।

सूत्रम्
१.१.२०

प्रवृत्तिदोषजनितोऽर्थः फलम् ।

सूत्रम्
१.१.२१

बाधनालक्षणं दुःखम् ।

सूत्रम्
१.१.२२

तदत्यन्तविमोक्षोऽपवर्गः ।

सूत्रम्