॥ श्रीः ॥
अनादिनिधनं देवं जगत्कारणमीश्वरम् । प्रपद्ये सत्यसङ्कल्पं नित्यविज्ञानविग्रहम् ॥
योगाचारविभूत्या यस्तोषयित्वा महेश्वरम् । चक्रे वैशेषिकं शास्त्रं तस्मै कणभुजे नमः ॥
यदीयतर्ककिरणैरान्तरध्वान्तसन्ततिम् । सन्तस्तरन्ति भास्वन्तम् अक्षपादं नमामि तम् ॥
जयन्ति पुरजिद्दत्तसाधुवादपवित्रिताः । निदानं न्यायरत्नानाम् अक्षपादमुनेर्गिरः ॥
काणादगौतमाम्बोधि परिमर्षरसोत्सुकाम् । विगाहन्तामिमांसन्तः प्रसरन्तीं सरस्वतीम् ॥